Sukta 4.33
प्र ऋभुभ्यो दूतमिव वाचमिष्य उपस्तिरे श्वैतरीं धेनुमीळे । ये वातजूतास्तरणिभिरेवैः परि द्यां सद्यो अपसो बभूवुः ॥
प्र ऋ॒भुभ्यो॑ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी॑ळे । ये वात॑जूतास्त॒रणि॑भि॒रेवै॒: परि॒ द्यां स॒द्यो अ॒पसो॑ बभू॒वुः ॥
prá ṛbhúbhyo dūtám iva vā́cam iṣye upastíre śvaitarī́m dhénum īḷe | yé vā́tajūtās taraṇíbhir évaiḥ párि dyā́m sadyó ápaso babhūvúḥ ||
Forward to the Rbhus I send my word like a messenger; I adore the bright-gleaming Cow of abundance that is spread out (for the seeker). They who are driven by the Wind-force, with swift coursers, at once became the workers who encompass the heaven—powers of effective action.
प्र । ऋ॒भुऽभ्यः॑ । दू॒तम्ऽइ॑व । वाच॑म् । इ॒ष्ये॒ । उ॒प॒ऽस्तिरे॑ । श्वैत॑रीम् । धे॒नुम् । ई॒ळे॒ । ये । वात॑ऽजूताः । त॒रणि॑ऽभिः । एवैः॑ । परि॑ । द्याम् । स॒द्यः । अ॒पसः॑ । ब॒भू॒वुः ॥प्र । ऋभुभ्यः । दूतम्इव । वाचम् । इष्ये । उपस्तिरे । श्वैतरीम् । धेनुम् । ईळे । ये । वातजूताः । तरणिभिः । एवैः । परि । द्याम् । सद्यः । अपसः । बभूवुः ॥pra | ṛbhu-bhyaḥ | dūtam-iva | vācam | iṣye | upa-stire | śvaitarīm | dhenum | īḷe | ye | vāta-jūtāḥ | taraṇi-bhiḥ | evaiḥ | pari | dyām | sadyaḥ | apasaḥ | babhūvuḥ