Sukta 4.33
इदाह्नः पीतिमुत वो मदं धुर्न ऋते श्रान्तस्य सख्याय देवाः । ते नूनमस्मे ऋभवो वसूनि तृतीये अस्मिन्त्सवने दधात ॥
इ॒दाह्न॑: पी॒तिमु॒त वो॒ मदं॑ धु॒र्न ऋ॒ते श्रा॒न्तस्य॑ स॒ख्याय॑ दे॒वाः । ते नू॒नम॒स्मे ऋ॑भवो॒ वसू॑नि तृ॒तीये॑ अ॒स्मिन्त्सव॑ने दधात ॥
idā́hnaḥ pītím uta vó mádaṃ dhur ná ṛté śrā́ntasya sakhyā́ya devā́ḥ | te nū́nam asmè ṛ́bhavo vásūni tṛtī́ye asmín sávane dadhāta ||
Now, in this day’s movement, the gods have poured for you the gladness of the Soma-drink and the uplifted delight; not without the friendship of the one who has laboured and grown weary in the seeking. Therefore, O Rbhus, place in us the true riches—here, in this third pressing, establish the plenitudes of being.
इ॒दा । अह्नः॑ पी॒तिम् । उ॒त । वः॒ । मद॑म् । धुः॒ । न । ऋ॒ते । श्रा॒न्तस्य॑ । स॒ख्याय॑ । दे॒वाः । ते । नू॒नम् । अ॒स्मे इति॑ । ऋ॒भ॒वः॒ । वसू॑नि । तृ॒तीये॑ । अ॒स्मिन् । सव॑ने । द॒धा॒त॒ ॥इदा । अह्नः पीतिम् । उत । वः । मदम् । धुः । न । ऋते । श्रान्तस्य । सख्याय । देवाः । ते । नूनम् । अस्मे इति । ऋभवः । वसूनि । तृतीये । अस्मिन् । सवने । दधात ॥idā | ahnaḥ pītim | uta | vaḥ | madam | dhuḥ | na | ṛte | śrāntasya | sakhyāya | devāḥ | te | nūnam | asme iti | ṛbhavaḥ | vasūni | tṛtīye | asmin | savane | dadhāta