Sukta 4.32
न त्वा वरन्ते अन्यथा यद्दित्ससि स्तुतो मघम् । स्तोतृभ्य इन्द्र गिर्वणः ॥
न त्वा॑ वरन्ते अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घम् । स्तो॒तृभ्य॑ इन्द्र गिर्वणः ॥
ná tvā varante anyáthā yád dítsasi stutó mágham | stotṛ́bhya índra girvaṇaḥ ||
None can turn thee aside in any other way: what thou willest to give—when praised—is the true largeness of thy gift to the singers, O Indra who delightest in the hymns.
न । त्वा॒ । व॒र॒न्ते॒ । अ॒न्यथा॑ । यत् । दित्स॑सि । स्तु॒तः । म॒घम् । स्तो॒तृऽभ्यः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥न । त्वा । वरन्ते । अन्यथा । यत् । दित्ससि । स्तुतः । मघम् । स्तोतृभ्यः । इन्द्र । गिर्वणः ॥na | tvā | varante | anyathā | yat | ditsasi | stutaḥ | magham | stotṛ-bhyaḥ | indra | girvaṇaḥ