Sukta 4.32
त्वं ह्येक ईशिष इन्द्र वाजस्य गोमतः । स नो यन्धि महीमिषम् ॥
त्वं ह्येक॒ ईशि॑ष॒ इन्द्र॒ वाज॑स्य॒ गोम॑तः । स नो॑ यन्धि म॒हीमिष॑म् ॥
tváṃ hy éka ī́śiṣe índra vājásya gómataḥ | sá no yandhi mahī́m íṣam ||
For thou alone rulest, O Indra, over the plenitude that is rich in rays; so grant to us a vast impulsion of fulfilling power.
त्वम् । हि । एकः॑ । ईशि॑षे । इन्द्र॑ । वाज॑स्य । गोऽम॑तः । सः । नः॒ । य॒न्धि॒ । म॒हीम् । इष॑म् ॥त्वम् । हि । एकः । ईशिषे । इन्द्र । वाजस्य । गोमतः । सः । नः । यन्धि । महीम् । इषम् ॥tvam | hi | ekaḥ | īśiṣe | indra | vājasya | go--mataḥ | saḥ | naḥ | yandhi | mahīm | iṣam