Sukta 4.32
प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् । माभ्यां गा अनु शिश्रथः ॥
प्र ते॑ ब॒भ्रू वि॑चक्षण॒ शंसा॑मि गोषणो नपात् । माभ्यां॒ गा अनु॑ शिश्रथः ॥
prá te babhrū́ vicakṣaṇa śáṃsāmi goṣaṇo napāt | mā́bhyāṃ gā́ ánu śiśrathaḥ ||
I proclaim your two tawny ones, O clear-seeing heir of the herd’s delight; do not let the rays follow those two away—let them be held for us here.
प्र । ते॒ । ब॒भ्रू इति॑ । वि॒ऽच॒क्ष॒ण॒ । शंसा॑मि । गो॒ऽस॒णः॒ । न॒पा॒त् । मा । आ॒भ्या॒म् । गाः । अनु॑ । शि॒श्र॒थः॒ ॥प्र । ते । बभ्रू इति । विचक्षण । शंसामि । गोसणः । नपात् । मा । आभ्याम् । गाः । अनु । शिश्रथः ॥pra | te | babhrū iti | vi-cakṣaṇa | śaṃsāmi | go--saṇaḥ | napāt | mā | ābhyām | gāḥ | anu | śiśrathaḥ