Sukta 4.32
भृमिश्चिद्घासि तूतुजिरा चित्र चित्रिणीष्वा । चित्रं कृणोष्यूतये ॥
भृमि॑श्चिद्घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा । चि॒त्रं कृ॑णोष्यू॒तये॑ ॥
bhṛ́miś cid ghā́si tū́tujiḥ | ā́ citra citríṇīṣv ā́ | citráṃ kṛṇoṣy ūtáye ||
Even in the whirl thou art the impetuous mover; O wondrous One, among the wondrous workings thou makest a wonder for our succour.
भृमिः॑ । चि॒त् । घ॒ । अ॒सि॒ । तूतु॑जिः । आ । चि॒त्र॒ । चि॒त्रिणी॑षु । आ । चि॒त्रम् । कृ॒णो॒षि॒ । ऊ॒तये॑ ॥भृमिः । चित् । घ । असि । तूतुजिः । आ । चित्र । चित्रिणीषु । आ । चित्रम् । कृणोषि । ऊतये ॥bhṛmiḥ | cit | gha | asi | tūtujiḥ | ā | citra | citriṇīṣu | ā | citram | kṛṇoṣi | ūtaye