Sukta 4.32
आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि । महान्महीभिरूतिभिः ॥
आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि । म॒हान्म॒हीभि॑रू॒तिभि॑: ॥
ā́ tū́ na indra vṛtrahan asmā́kam ardhám ā́ gahi | mahā́n mahī́bhir ūtíbhiḥ ||
Come then to us, O Indra the slayer of the Coverer; come to our portion and share; great, with thy mighty succours enter and uphold.
आ । तु । नः॒ । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । अ॒स्माक॑म् । अ॒र्धम् । आ । ग॒हि॒ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ ॥आ । तु । नः । इन्द्र । वृत्रहन् । अस्माकम् । अर्धम् । आ । गहि । महान् । महीभिः । ऊतिभिः ॥ā | tu | naḥ | indra | vṛtra-han | asmākam | ardham | ā | gahi | mahān | mahībhiḥ | ūti-bhiḥ