Sukta 4.32
दश ते कलशानां हिरण्यानामधीमहि । भूरिदा असि वृत्रहन् ॥
दश॑ ते क॒लशा॑नां॒ हिर॑ण्यानामधीमहि । भू॒रि॒दा अ॑सि वृत्रहन् ॥
dáśa te kalaśā́nāṃ híraṇyānām adhīmahi | bhūrí-dā́ asi vṛtra-han ||
Ten golden vessels of your plenitude we set before the mind in contemplation; for you are the giver of abundance, O slayer of the obstructing cover.
दश॑ । ते॒ । क॒लशा॑नाम् । हिर॑ण्यानाम् । अ॒धी॒म॒हि॒ । भू॒रि॒ऽदाः । अ॒सि॒ । वृ॒त्र॒ऽह॒न् ॥दश । ते । कलशानाम् । हिरण्यानाम् । अधीमहि । भूरिदाः । असि । वृत्रहन् ॥daśa | te | kalaśānām | hiraṇyānām | adhīmahi | bhūri-dāḥ | asi | vṛtra-han