Sukta 4.32
सहस्रं व्यतीनां युक्तानामिन्द्रमीमहे । शतं सोमस्य खार्यः ॥
स॒हस्रं॒ व्यती॑नां यु॒क्ताना॒मिन्द्र॑मीमहे । श॒तं सोम॑स्य खा॒र्य॑: ॥
sahásraṃ vyátīnām yuktā́nām índram īmahe | śatáṃ sómasya khāryàḥ ||
We seek Indra with a thousand harnessed powers of discernment, and a hundred measures of Soma’s uplifted delight—so that the force may be made ready in us.
स॒हस्र॑म् । व्यती॑नाम् । यु॒क्ताना॑म् । इन्द्र॑म् । ई॒म॒हे॒ । श॒तम् । सोम॑स्य । खा॒र्यः॑ ॥सहस्रम् । व्यतीनाम् । युक्तानाम् । इन्द्रम् । ईमहे । शतम् । सोमस्य । खार्यः ॥sahasram | vyatīnām | yuktānām | indram | īmahe | śatam | somasya | khāryaḥ