Sukta 4.32
ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या । सुतेष्विन्द्र गिर्वणः ॥
ता ते॑ गृणन्ति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या॑ । सु॒तेष्वि॑न्द्र गिर्वणः ॥
tā́ te gṛṇanti vedháso yā́ni cakártha paúṃsyā | sutéṣv índra girvaṇaḥ ||
These the wise-formers sing to thee—the manly deeds thou hast done—at the Soma-pressings, O Indra who delightest in the hymns.
ता । ते॒ । गृ॒ण॒न्ति॒ । वे॒धसः॑ । यानि॑ । च॒कर्थ॑ । पौंस्या॑ । सु॒तेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥ता । ते । गृणन्ति । वेधसः । यानि । चकर्थ । पौंस्या । सुतेषु । इन्द्र । गिर्वणः ॥tā | te | gṛṇanti | vedhasaḥ | yāni | cakartha | paiṃsyā | suteṣu | indra | girvaṇaḥ