Sukta 4.32
अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः । ऐषु धा वीरवद्यशः ॥
अवी॑वृधन्त॒ गोत॑मा॒ इन्द्र॒ त्वे स्तोम॑वाहसः । ऐषु॑ धा वी॒रव॒द्यश॑: ॥
avī́vṛdhanta gotamā́ índra tvé stóma-vāhasaḥ | ā́iṣu dhā vīrávad yáśaḥ ||
The Gotamas have increased thee, O Indra, bearing the hymns to thee; in these (our offerings) set thou a glory that is rich in heroic force.
अवी॑वृधन्त । गोत॑माः । इन्द्र॑ । त्वे इति॑ । स्तोम॑ऽवाहसः । आ । ए॒षु॒ । धाः॒ । वी॒रऽव॑त् । यशः॑ ॥अवीवृधन्त । गोतमाः । इन्द्र । त्वे इति । स्तोमवाहसः । आ । एषु । धाः । वीरवत् । यशः ॥avīvṛdhanta | gotamāḥ | indra | tve iti | stoma-vāhasaḥ | ā | eṣu | dhāḥ | vīra-vat | yaśaḥ