Sukta 4.32
प्र ते वोचाम वीर्या या मन्दसान आरुजः । पुरो दासीरभीत्य ॥
प्र ते॑ वोचाम वी॒र्या॒३॒॑ या म॑न्दसा॒न आरु॑जः । पुरो॒ दासी॑र॒भीत्य॑ ॥
prá te vocāma vīryā̀ yā́ mandasānó ā́ rujáḥ | púro dā́sīr abhī́tya ||
Forth will we speak thy hero-powers—how, exulting, thou didst break open the strongholds, advancing upon the enslaving powers.
प्र । ते॒ । वो॒चा॒म॒ । वी॒र्या॑ । याः । म॒न्द॒स॒नः । आ । अरु॑जः । पुरः॑ । दासीः॑ । अ॒भि॒ऽइत्य॑ ॥प्र । ते । वोचाम । वीर्या । याः । मन्दसनः । आ । अरुजः । पुरः । दासीः । अभिइत्य ॥pra | te | vocāma | vīryā | yāḥ | mandasanaḥ | ā | arujaḥ | puraḥ | dāsīḥ | abhi-itya