Sukta 4.31
उत स्मा हि त्वामाहुरिन्मघवानं शचीपते । दातारमविदीधयुम् ॥
उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा॑नं शचीपते । दाता॑र॒मवि॑दीधयुम् ॥
utá smā́ hí tvām ā́hur ín maghávānaṃ śacī-pate | dā́tāram aví-dīdhayum ||
And indeed they call you, O lord of the effective power, the bounteous one—giver who is not to be dimmed; your generosity is a flame that cannot be put out in the seeker.
उ॒त । स्म॒ । हि । त्वाम् । आ॒हुः । इत् । म॒घऽवा॑नम् । श॒ची॒ऽप॒ते॒ । दाता॑रम् । अवि॑ऽदीधयुम् ॥उत । स्म । हि । त्वाम् । आहुः । इत् । मघवानम् । शचीपते । दातारम् । अविदीधयुम् ॥uta | sma | hi | tvām | āhuḥ | it | magha-vānam | śacī-pate | dātāram | avi-dīdhayum