Sukta 4.31
सं यत्त इन्द्र मन्यवः सं चक्राणि दधन्विरे । अध त्वे अध सूर्ये ॥
सं यत्त॑ इन्द्र म॒न्यव॒: सं च॒क्राणि॑ दधन्वि॒रे । अध॒ त्वे अध॒ सूर्ये॑ ॥
sáṃ yát ta indra manyávaḥ sáṃ cakrā́ṇi dadhanviré | ádha tvé ádha sū́rye ||
When your forces of fervour, O Indra, gather together and set their workings in motion, then it is in you—and then in the Sun—that the decisive turning is established.
सम् । यत् । ते॒ । इ॒न्द्र॒ । म॒न्यवः॑ । सम् । च॒क्राणि॑ । द॒ध॒न्वि॒रे । अध॑ । त्वे इति॑ । अध॑ । सूर्ये॑ ॥सम् । यत् । ते । इन्द्र । मन्यवः । सम् । चक्राणि । दधन्विरे । अध । त्वे इति । अध । सूर्ये ॥sam | yat | te | indra | manyavaḥ | sam | cakrāṇi | dadhanvire | adha | tve iti | adha | sūrye