Sukta 4.31
अस्माँ अविड्ढि विश्वहेन्द्र राया परीणसा । अस्मान्विश्वाभिरूतिभिः ॥
अ॒स्माँ अ॑विड्ढि वि॒श्वहेन्द्र॑ रा॒या परी॑णसा । अ॒स्मान्विश्वा॑भिरू॒तिभि॑: ॥
asmā́m̐ aviḍḍhi viśváhendra rāyā́ parī́ṇasā | asmā́n víśvābhir ūtíbhiḥ ||
Find us and pierce through to us, O Indra who art master of all, with the wealth that is fullness; encompass us with all thy succours.
अ॒स्मान् । अ॒वि॒ड्ढि॒ । वि॒श्वऽहा॑ । इन्द्र॑ । रा॒या । परी॑णसा । अ॒स्मान् । विश्वा॑भिः । ऊ॒तिऽभिः॑ ॥अस्मान् । अविड्ढि । विश्वहा । इन्द्र । राया । परीणसा । अस्मान् । विश्वाभिः । ऊतिभिः ॥asmān | aviḍḍhi | viśva-hā | indra | rāyā | parīṇasā | asmān | viśvābhiḥ | ūti-bhiḥ