Sukta 4.31
अस्माँ इहा वृणीष्व सख्याय स्वस्तये । महो राये दिवित्मते ॥
अ॒स्माँ इ॒हा वृ॑णीष्व स॒ख्याय॑ स्व॒स्तये॑ । म॒हो रा॒ये दि॒वित्म॑ते ॥
asmā́m̐ ihā́ vṛṇīṣva sakhyā́ya svastáye | mahó rāyé divítmate ||
Choose us here for thy friendship and for our well-being; choose us for the great fullness of spiritual wealth that is luminous and heavenward.
अ॒स्मान् । इ॒ह । वृ॒णी॒ष्व॒ । स॒ख्याय॑ । स्व॒स्तये॑ । म॒हः । रा॒ये । दि॒वित्म॑ते ॥अस्मान् । इह । वृणीष्व । सख्याय । स्वस्तये । महः । राये । दिवित्मते ॥asmān | iha | vṛṇīṣva | sakhyāya | svastaye | mahaḥ | rāye | divitmate