Sukta 4.30
एतद्घेदुत वीर्यमिन्द्र चकर्थ पौंस्यम् । स्त्रियं यद्दुर्हणायुवं वधीर्दुहितरं दिवः ॥
ए॒तद्घेदु॒त वी॒र्य१॒॑मिन्द्र॑ च॒कर्थ॒ पौंस्य॑म् । स्त्रियं॒ यद्दु॑र्हणा॒युवं॒ वधी॑र्दुहि॒तरं॑ दि॒वः ॥
etád ghedutá vīryàm índra cakártha paúṃsyam | stríyaṃ yád durhaṇāyúvam vádhīr duhítaraṃ diváḥ ||
This too indeed is your hero-power, O Indra, your male might: that you struck down the woman, the hard-to-overcome, the daughter of Heaven—so that the obstructive charm might be broken.
ए॒तत् । घ॒ । इत् । उ॒त । वी॒र्य॑म् । इन्द्र॑ । च॒कर्थ॑ । पौंस्य॑म् । स्त्रिय॑म् । यत् । दुः॒ऽह॒ना॒युव॑म् । वधीः॑ । दु॒हि॒तर॑म् । दि॒वः ॥एतत् । घ । इत् । उत । वीर्यम् । इन्द्र । चकर्थ । पौंस्यम् । स्त्रियम् । यत् । दुःहनायुवम् । वधीः । दुहितरम् । दिवः ॥etat | gha | it | uta | vīryam | indra | cakartha | paiṃsyam | striyam | yat | duḥ-hanāyuvam | vadhīḥ | duhitaram | divaḥ