Sukta 4.30
किमादुतासि वृत्रहन्मघवन्मन्युमत्तमः । अत्राह दानुमातिरः ॥
किमादु॒तासि॑ वृत्रह॒न्मघ॑वन्मन्यु॒मत्त॑मः । अत्राह॒ दानु॒माति॑रः ॥
kímādutā́si vṛtrahan mághavan manyumáttamaḥ | atrā́ha dā́num ā́tiraḥ ||
Why then are you, O Vṛtra-slayer, O bounteous one, the most filled with wrath? Here indeed you have crossed beyond Dānu.
किम् । आत् । उ॒त । अ॒सि॒ । वृ॒त्र॒ऽह॒न् । मघ॑ऽवन् । म॒न्यु॒मत्ऽत॑मः । अत्र॑ । अह॑ । दानु॑म् । आ । अ॒ति॒रः॒ ॥किम् । आत् । उत । असि । वृत्रहन् । मघवन् । मन्युमत्तमः । अत्र । अह । दानुम् । आ । अतिरः ॥kim | āt | uta | asi | vṛtra-han | magha-van | manyumat-tamaḥ | atra | aha | dānum | ā | atiraḥ