Sukta 4.29
अच्छा यो गन्ता नाधमानमूती इत्था विप्रं हवमानं गृणन्तम् । उप त्मनि दधानो धुर्याशून्त्सहस्राणि शतानि वज्रबाहुः ॥
अच्छा॒ यो गन्ता॒ नाध॑मानमू॒ती इ॒त्था विप्रं॒ हव॑मानं गृ॒णन्त॑म् । उप॒ त्मनि॒ दधा॑नो धु॒र्या॒३॒॑शून्त्स॒हस्रा॑णि श॒तानि॒ वज्र॑बाहुः ॥
acchā́ yó gantā́ nā́dhamānam ūtī́ itthā́ vípraṃ hávamānaṃ gṛṇántam | úpa tmáni dádhāno dhuryā́śū́n sahásrāṇi śatā́ni vájra-bāhuḥ ||
He who comes straight to the one in need with his help—thus to the inspired seer who calls and praises—he, the wielder of the thunder-force, places upon himself the yoke-team of swift powers, by thousands and hundreds, to carry us forward.
अच्छ॑ । यः । गन्ता॑ । नाध॑मानम् । ऊ॒ती । इ॒त्था । विप्र॑म् । हव॑मानम् । गृ॒णन्त॑म् । उप॑ । त्मनि॑ । दधा॑नः । धु॒रि । आ॒शून् । स॒हस्रा॑णि । श॒तानि॑ । वज्र॑ऽबाहुः ॥अच्छ । यः । गन्ता । नाधमानम् । ऊती । इत्था । विप्रम् । हवमानम् । गृणन्तम् । उप । त्मनि । दधानः । धुरि । आशून् । सहस्राणि । शतानि । वज्रबाहुः ॥accha | yaḥ | gantā | nādhamānam | ūtī | itthā | vipram | havamānam | gṛṇantam | upa | tmani | dadhānaḥ | dhuri | āśūn | sahasrāṇi | śatāni | vajra-bāhuḥ