Sukta 4.29
त्वोतासो मघवन्निन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः । भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ॥
त्वोता॑सो मघवन्निन्द्र॒ विप्रा॑ व॒यं ते॑ स्याम सू॒रयो॑ गृ॒णन्त॑: । भे॒जा॒नासो॑ बृ॒हद्दि॑वस्य रा॒य आ॑का॒य्य॑स्य दा॒वने॑ पुरु॒क्षोः ॥
tvó-tāso maghavann indra víprā vayáṃ te syāma sūrayo gṛṇántaḥ | bhejānā́so bṛhád-divasya rāyá ākā́yyasya dā́vane puru-kṣóḥ ||
O Maghavan Indra, protected by you, may we be inspired seers—luminous in our understanding—ever praising you. Sharing in the riches of the vast heaven, may we be fit to receive the generous giving of your abundant plenty.
त्वाऽऊ॑तासः । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । विप्राः॑ । व॒यम् । ते॒ । स्या॒म॒ । सू॒रयः॑ । गृ॒णन्तः॑ । भे॒जा॒नासः॑ । बृ॒हत्ऽदि॑वस्य । रा॒यः । आ॒ऽका॒य्य॑स्य । दा॒वने॑ । पु॒रु॒ऽक्षोः ॥त्वाऊतासः । मघवन् । इन्द्र । विप्राः । वयम् । ते । स्याम । सूरयः । गृणन्तः । भेजानासः । बृहत्दिवस्य । रायः । आकाय्यस्य । दावने । पुरुक्षोः ॥tvāūtāsaḥ | magha-van | indra | viprāḥ | vayam | te | syāma | sūrayaḥ | gṛṇantaḥ | bhejānāsaḥ | bṛhat-divasya | rāyaḥ | ākāyyasya | dāvane | puru-kṣoḥ