Sukta 4.29
श्रावयेदस्य कर्णा वाजयध्यै जुष्टामनु प्र दिशं मन्दयध्यै । उद्वावृषाणो राधसे तुविष्मान्करन्न इन्द्रः सुतीर्थाभयं च ॥
श्रா॒वयेद॑स्य॒ कर्णा॑ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं॑ मन्द॒यध्यै॑ । उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न्कर॑न्न॒ इन्द्र॑: सुती॒र्थाभ॑यं च ॥
śrāvayéd asya kárṇā vājayádhyai júṣṭām ánu prá díśaṃ mandayádhyai | úd vāvṛṣāṇó rā́dhase tuvíṣmān káran na índraḥ su-tī́rthā́bhayaṃ ca ||
Make his ears hear, so that he may bring the plenitudes of force; send forth the beloved call in every direction to make him rejoice. Rising in his overflowing might for our fulfilment, may Indra the mighty establish for us a good crossing and fearlessness.
श्रा॒वय॑ । इत् । अ॒स्य॒ । कर्णा॑ । वा॒ज॒यध्यै॑ । जुष्टा॑म् । अनु॑ । प्र । दिश॑म् । म॒न्द॒यध्यै॑ । उ॒त्ऽव॒वृ॒षा॒णः । राध॑से । तुवि॑ष्मान् । कर॑त् । नः॒ । इन्द्रः॑ । सु॒ऽती॒र्था । अभ॑यम् । च॒ ॥श्रावय । इत् । अस्य । कर्णा । वाजयध्यै । जुष्टाम् । अनु । प्र । दिशम् । मन्दयध्यै । उत्ववृषाणः । राधसे । तुविष्मान् । करत् । नः । इन्द्रः । सुतीर्था । अभयम् । च ॥śrāvaya | it | asya | karṇā | vājayadhyai | juṣṭām | anu | pra | diśam | mandayadhyai | ut-vavṛṣāṇaḥ | rādhase | tuviṣmān | karat | naḥ | indraḥ | su-tīrthā | abhayam | ca