Sukta 4.29
आ हि ष्मा याति नर्यश्चिकित्वान्हूयमानः सोतृभिरुप यज्ञम् । स्वश्वो यो अभीरुर्मन्यमानः सुष्वाणेभिर्मदति सं ह वीरैः ॥
आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान्हू॒यमा॑नः सो॒तृभि॒रुप॑ य॒ज्ञम् । स्वश्वो॒ यो अभी॑रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ॥
ā́ hí ṣmā yā́ti náryaś cikitvā́n hūyámānaḥ sotṛ́bhir úpa yajñám | sváśvo yó abhī́rur mányamānaḥ suṣvāṇébhiḥ mádati sáṃ ha vī́raiḥ ||
For indeed he comes—the man-power, the knower—called by the pressers, to the sacrifice. He of good steeds, fearless in his self-regard, becomes intoxicated with those who press well, joining together with the heroes (our strong energies).
आ । हि । स्म॒ । याति॑ । नर्यः॑ । चि॒कि॒त्वान् । हू॒यमा॑नः । सो॒तृऽभिः॑ । उप॑ । य॒ज्ञम् । सु॒ऽअश्वः॑ । यः । अभी॑रुः । मन्य॑मानः । सु॒ऽस्वा॒णेभिः॑ । मद॑ति । सम् । ह॒ । वी॒रैः ॥आ । हि । स्म । याति । नर्यः । चिकित्वान् । हूयमानः । सोतृभिः । उप । यज्ञम् । सुअश्वः । यः । अभीरुः । मन्यमानः । सुस्वाणेभिः । मदति । सम् । ह । वीरैः ॥ā | hi | sma | yāti | naryaḥ | cikitvān | hūyamānaḥ | sotṛ-bhiḥ | upa | yajñam | su-aśvaḥ | yaḥ | abhīruḥ | manyamānaḥ | su-svāṇebhiḥ | madati | sam | ha | vīraiḥ