Sukta 4.29
आ नः स्तुत उप वाजेभिरूती इन्द्र याहि हरिभिर्मन्दसानः । तिरश्चिदर्यः सवना पुरूण्याङ्गूषेभिर्गृणानः सत्यराधाः ॥
आ न॑: स्तु॒त उप॒ वाजे॑भिरू॒ती इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः । ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या॑ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा॑धाः ॥
ā́ naḥ stutá úpa vājébhir ūtī́ índra yā́hi háribhir mandasānáḥ | tiráś cid aryáḥ sávanā purū́ṇy ā́ṅgūṣebhir gṛṇānáḥ satyárādhāḥ ||
Come to us, O Indra, praised—come near with your help that brings plenitudes of force; arrive rejoicing with your tawny powers. Even from afar, O noble one, come to the many pressings, being sung by our inspired words, you whose accomplishment is faithful to the Truth.
आ । नः॒ । स्तु॒तः । उप॑ । वाजे॑भिः । ऊ॒ती । इन्द्र॑ । या॒हि । हरि॑ऽभिः । म॒न्द॒सा॒नः । ति॒रः । चि॒त् । अ॒र्यः । सव॑ना । पु॒रूणि । आ॒ङ्गू॒षेभिः॑ । गृ॒णा॒नः । स॒त्यऽरा॑धाः ॥आ । नः । स्तुतः । उप । वाजेभिः । ऊती । इन्द्र । याहि । हरिभिः । मन्दसानः । तिरः । चित् । अर्यः । सवना । पुरूणि । आङ्गूषेभिः । गृणानः । सत्यराधाः ॥ā | naḥ | stutaḥ | upa | vājebhiḥ | ūtī | indra | yāhi | hari-bhiḥ | mandasānaḥ | ti raḥ | cit | aryaḥ | savanā | purūṇi | āṅgūṣebhiḥ | gṛṇānaḥ | satya-rādhāḥ