Sukta 4.27
ऋजिप्य ईमिन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः । अन्तः पतत्पतत्र्यस्य पर्णमध यामनि प्रसितस्य तद्वेः ॥
ऋ॒जि॒प्य ई॒मिन्द्रा॑वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो अधि॒ ष्णोः । अ॒न्तः प॑तत्पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ॥
ṛjipyá ī́m índrāvato ná bhujyúṃ śyéno jabhāra br̥ható ádhi ṣṇóḥ | antáḥ patat patatríy asya párṇam ádha yā́mani prásitasya tád véḥ ||
The straight-winged one—like Bhujyu rescued by the Indra-powers—bore it from the Vast, from the lofty summit. Flying within, the wing of the winged moved; then, on the journey of the released impulse, he knew that decisive way—how the higher delight can be carried safely into life.
ऋ॒जि॒प्यः । ई॒म् । इन्द्र॑ऽवतः । न । भु॒ज्युम् । श्ये॒नः । ज॒भा॒र॒ । बृ॒ह॒तः । अधि॑ । स्नोः । अ॒न्तरिति॑ । प॒त॒त् । प॒त॒त्रि । अ॒स्य॒ । प॒र्णम् । अध॑ । याम॑नि । प्रऽसि॑तस्य । तत् । वेः ॥ऋजिप्यः । ईम् । इन्द्रवतः । न । भुज्युम् । श्येनः । जभार । बृहतः । अधि । स्नोः । अन्तरिति । पतत् । पतत्रि । अस्य । पर्णम् । अध । यामनि । प्रसितस्य । तत् । वेः ॥ṛjipyaḥ | īm | indra-vataḥ | na | bhujyum | śyenaḥ | jabhāra | bṛhataḥ | adhi | snoḥ | antariti | patat | patatri | asya | parṇam | adha | yāmani | pra-sitasya | tat | veḥ