Sukta 4.27
अव यच्छ्येनो अस्वनीदध द्योर्वि यद्यदि वात ऊहुः पुरंधिम् । सृजद्यदस्मा अव ह क्षिपज्ज्यां कृशानुरस्ता मनसा भुरण्यन् ॥
अव॒ यच्छ्ये॒नो अस्व॑नी॒दध॒ द्योर्वि यद्यदि॒ वात॑ ऊ॒हुः पुरं॑धिम् । सृ॒जद्यद॑स्मा॒ अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ॥
áva yác chyéno ásvanīd ádha dyór ví yád yádi vātá ūhúḥ puráṃdhim | sr̥jád yád as्मā́ áva ha kṣipáj jyā́ṃ kr̥śā́nur ástā mánasā bhuraṇyán ||
When the Falcon swooped downward, and when the winds of heaven drove and tossed the plenitude, then—letting it go for him—Kṛśānu the archer hurled down the bowstring; yet the Falcon, rushing with mind’s swift turning, bore onward and did not lose the treasure of delight.
अव॑ । यत् । श्ये॒नः । अस्व॑नीत् । अध॑ । द्योः । वि । यत् । यदि॑ । वा॒ । अतः॑ । ऊ॒हुः । पुर॑म्ऽधिम् । सृ॒जत् । यत् । अ॒स्मै॒ । अव॑ । ह॒ । क्षि॒पत् । ज्याम् । कृ॒शानुः॑ । अस्ता॑ । मन॑सा । भु॒र॒ण्यन् ॥अव । यत् । श्येनः । अस्वनीत् । अध । द्योः । वि । यत् । यदि । वा । अतः । ऊहुः । पुरम्धिम् । सृजत् । यत् । अस्मै । अव । ह । क्षिपत् । ज्याम् । कृशानुः । अस्ता । मनसा । भुरण्यन् ॥ava | yat | śyenaḥ | asvanīt | adha | dyoḥ | vi | yat | yadi | vā | ataḥ | ūhuḥ | puram-dhim | sṛjat | yat | asmai | ava | ha | kṣipat | jyām | kṛśānuḥ | astā | manasā | bhuraṇyan