Sukta 4.24
यदा समर्यं व्यचेदृघावा दीर्घं यदाजिमभ्यख्यदर्यः । अचिक्रदद्वृषणं पत्न्यच्छा दुरोण आ निशितं सोमसुद्भिः ॥
य॒दा स॑म॒र्यं व्यचे॒दृघा॑वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः । अचि॑क्रद॒द्वृष॑णं॒ पत्न्यच्छा॑ दुरो॒ण आ निशि॑तं सोम॒सुद्भि॑: ॥
yadā samaryáṃ vyácet ṛ́ghāvā dīrgháṃ yadā́jim abhyákhyad aryáḥ | ácikradad vṛ́ṣaṇaṃ pátny acchá duroṇá ā níśitaṃ somasúdbhiḥ ||
When the swift one discerned the comrade in the long course, when the noble one sighted the contest straight before him, he cried out to the Bull towards the Spouse: ‘Come to the house, sharpened (made keen) by the Soma-pressers.’
य॒दा । स॒ऽम॒र्यम् । वि । अचे॑त् । ऋघा॑वा । दी॒र्घम् । यत् । आ॒जिम् । अ॒भि । अख्य॑त् । अ॒र्यः । अचि॑क्रदत् । वृष॑णम् । पत्नी॑ । अच्छ॑ । दु॒रो॒णे । आ । निऽशि॑तम् । सो॒म॒सुत्ऽभिः॑ ॥यदा । समर्यम् । वि । अचेत् । ऋघावा । दीर्घम् । यत् । आजिम् । अभि । अख्यत् । अर्यः । अचिक्रदत् । वृषणम् । पत्नी । अच्छ । दुरोणे । आ । निशितम् । सोमसुत्भिः ॥yadā | sa-maryam | vi | acet | ṛghāvā | dīrgham | yat | ājim | abhi | akhyat | aryaḥ | acikradat | vṛṣaṇam | patnī | accha | duroṇe | ā | ni-śitam | somasut-bhiḥ