Sukta 4.24
य इन्द्राय सुनवत्सोममद्य पचात्पक्तीरुत भृज्जाति धानाः । प्रति मनायोरुचथानि हर्यन्तस्मिन्दधद्वृषणं शुष्ममिन्द्रः ॥
य इन्द्रा॑य सु॒नव॒त्सोम॑म॒द्य पचा॑त्प॒क्तीरु॒त भृ॒ज्जाति॑ धा॒नाः । प्रति॑ मना॒योरु॒चथा॑नि॒ हर्य॒न्तस्मि॑न्दध॒द्वृष॑णं॒ शुष्म॒मिन्द्र॑: ॥
yá indrā́ya sunávát sómam adyá pácāt paktī́r utá bhṛjjā́ti dhānā́ḥ | práti manāyór ucáthāni háryan tásmin dadhád vṛ́ṣaṇaṃ śúṣmam índraḥ ||
Whoever today presses Soma for Indra, and cooks the ripenings and roasts the grains—towards his two ardors of mind Indra hastens in response to the chants, placing in him the bull-like force, the victorious might.
यः । इन्द्रा॑य । सु॒नव॑त् । सोम॑म् । अ॒द्य । पचा॑त् । प॒क्तीः । उ॒त । भृ॒ज्जाति॑ । धा॒नाः । प्रति॑ । म॒ना॒योः । उ॒चथा॑नि । हर्य॑न् । तस्मि॑न् । दध॑त् । वृष॑णम् । शुष्म॑म् । इन्द्रः॑ ॥यः । इन्द्राय । सुनवत् । सोमम् । अद्य । पचात् । पक्तीः । उत । भृज्जाति । धानाः । प्रति । मनायोः । उचथानि । हर्यन् । तस्मिन् । दधत् । वृषणम् । शुष्मम् । इन्द्रः ॥yaḥ | indrāya | sunavat | somam | adya | pacāt | paktīḥ | uta | bhṛjjāti | dhānāḥ | prati | manāyoḥ | ucathāni | haryan | tasmin | dadhat | vṛṣaṇam | śuṣmam | indraḥ