Sukta 4.24
तमिन्नरो वि ह्वयन्ते समीके रिरिक्वांसस्तन्वः कृण्वत त्राम् । मिथो यत्त्यागमुभयासो अग्मन्नरस्तोकस्य तनयस्य सातौ ॥
तमिन्नरो॒ वि ह्व॑यन्ते समी॒के रि॑रि॒क्वांस॑स्त॒न्व॑: कृण्वत॒ त्राम् । मि॒थो यत्त्या॒गमु॒भया॑सो॒ अग्म॒न्नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तौ ॥
tám ín naró ví hvayante samīké ririkvā́ṃsas tanvàḥ kṛṇvata trā́m | mithó yát tyā́gam ubhā́yāso ágmān narás tokásya tánayasya sātáu ||
Him indeed men call in the encounter; the strong strivers make their bodies a protection. When, facing one another, both sides have come to the casting-away (the crisis of surrender and risk), the men (invoke him) for the winning of the child and the offspring—of continuity in the soul’s line.
तम् । इत् । नरः॑ । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के । रि॒रि॒क्वांसः॑ । त॒न्वः॑ । कृ॒ण्व॒त॒ । त्राम् । मि॒थः । यत् । त्या॒गम् । उ॒भ्या॑सः । अग्म॑न् । नरः॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तौ ॥तम् । इत् । नरः । वि । ह्वयन्ते । सम्ईके । रिरिक्वांसः । तन्वः । कृण्वत । त्राम् । मिथः । यत् । त्यागम् । उभ्यासः । अग्मन् । नरः । तोकस्य । तनयस्य । सातौ ॥tam | it | naraḥ | vi | hvayante | sam-īke | ririkvaaṃsaḥ | tanvaḥ | kṛṇvata | trām | mithaḥ | yat | tyāgam | ubhyāsaḥ | agman | naraḥ | tokasya | tanayasya | sātau