Sukta 4.24
क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ । सं यद्विशोऽववृत्रन्त युध्मा आदिन्नेम इन्द्रयन्ते अभीके ॥
क्र॒तू॒यन्ति॑ क्षि॒तयो॒ योग॑ उग्राशुषा॒णासो॑ मि॒थो अर्ण॑सातौ । सं यद्विशोऽव॑वृत्रन्त यु॒ध्मा आदिन्नेम॑ इन्द्रयन्ते अ॒भीके॑ ॥
kratūyánti kṣitáyo yóga ugrāśuṣāṇāso mithó arṇasātáu | sáṃ yád viśo’vavṛtranta yudhmā ād ín néma indrayante abhīké ||
The peoples set their will into action in the joining, O Mighty One, eager in mutual striving for the winning of the flood (of plenitude). When the clans close together in the battle, then indeed, in the very nearness, they call and press towards Indra (the illumined Force).
क्र॒तु॒अन्ति॑ । क्षि॒तयः॑ । योगे॑ । उ॒ग्र॒ । आ॒शु॒षा॒णासः॑ । मि॒थः । अर्ण॑ऽसातौ । सम् । यत् । विशः॑ । अव॑वृत्रन्त । यु॒ध्माः । आत् । इत् । नेमे॑ । इ॒न्द्र॒य॒न्ते॒ । अ॒भीके॑ ॥क्रतुअन्ति । क्षितयः । योगे । उग्र । आशुषाणासः । मिथः । अर्णसातौ । सम् । यत् । विशः । अववृत्रन्त । युध्माः । आत् । इत् । नेमे । इन्द्रयन्ते । अभीके ॥kratuanti | kṣitayaḥ | yoge | ugra | āśuṣāṇāsaḥ | mithaḥ | arṇa-sātau | sam | yat | viśaḥ | avavṛtranta | yudhmāḥ | āt | it | neme | indrayante | abhīke