Sukta 4.24
स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः । स यामन्ना मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ॥
स वृ॑त्र॒हत्ये॒ हव्य॒: स ईड्य॒: स सुष्टु॑त॒ इन्द्र॑: स॒त्यरा॑धाः । स याम॒न्ना म॒घवा॒ मर्त्या॑य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ॥
sá vṛtra-hátye havyáḥ sá ī́ḍyaḥ sá suṣṭutá índraḥ satyá-rādhāḥ | sá yā́mann ā́ maghávā martyā́ya brahmaṇyaté suṣváye vári-vo dhāt ||
He is the offering in the slaying of Vṛtra; he is to be invoked, he is to be adored—Indra well praised, whose bounty is true. In the journey he, the bounteous one, comes to the mortal who seeks the word of power and presses Soma; he establishes for him a wide room (a free space) to move.
सः । वृ॒त्र॒ऽहत्ये॑ । हव्यः॑ । सः । ईड्यः॑ । सः । सुऽस्तु॑तः । इन्द्रः॑ । स॒त्यऽरा॑धाः । सः । याम॑न् । आ । म॒घऽवा॑ । मर्त्या॑य । ब्र॒ह्म॒ण्य॒ते । सुष्व॑ये । वरि॑वः । धा॒त् ॥सः । वृत्रहत्ये । हव्यः । सः । ईड्यः । सः । सुस्तुतः । इन्द्रः । सत्यराधाः । सः । यामन् । आ । मघवा । मर्त्याय । ब्रह्मण्यते । सुष्वये । वरिवः । धात् ॥saḥ | vṛtra-hatye | havyaḥ | saḥ | īḍyaḥ | saḥ | su-stutaḥ | indraḥ | satya-rādhāḥ | saḥ | yāman | ā | magha-vā | martyāya | brahmaṇyate | suṣvaye | var ivaḥ | dhāt