Sukta 4.24
का सुष्टुतिः शवसः सूनुमिन्द्रमर्वाचीनं राधस आ ववर्तत् । ददिर्हि वीरो गृणते वसूनि स गोपतिर्निष्षिधां नो जनासः ॥
का सु॑ष्टु॒तिः शव॑सः सू॒नुमिन्द्र॑मर्वाची॒नं राध॑स॒ आ व॑वर्तत् । द॒दिर्हि वी॒रो गृ॑ण॒ते वसू॑नि॒ स गोप॑तिर्नि॒ष्षिधां॑ नो जनासः ॥
kā́ suṣṭutíḥ śávasaḥ sūnúm índram arvācīnáṃ rā́dhase ā́ vavartat | dadír hí vīró gṛṇaté vásūni sá gṓpatir niṣṣídhāṃ no janāsaḥ ||
What perfect praise will turn Indra, the son of Strength, toward us for his giving? For the hero indeed gives treasures to the singer; he, the Lord of the luminous herds, drives away our down-pressing constraints, O peoples.
का । सु॒ऽस्तु॒तिः । शव॑सः । सू॒नुम् । इन्द्र॑म् । अ॒र्वा॒ची॒नम् । राध॑से । आ । व॒व॒र्त॒त् । द॒दिः । हि । वी॒रः । गृ॒ण॒ते । वसू॑नि । सः । गोऽप॑तिः । निः॒ऽसिधा॑म् । नः॒ । ज॒ना॒सः॒ ॥का । सुस्तुतिः । शवसः । सूनुम् । इन्द्रम् । अर्वाचीनम् । राधसे । आ । ववर्तत् । ददिः । हि । वीरः । गृणते । वसूनि । सः । गोपतिः । निःसिधाम् । नः । जनासः ॥kā | su-stutiḥ | śavasaḥ | sūnum | indram | arvācīnam | rādhase | ā | vavartat | dadiḥ | hi | vīraḥ | gṛṇate | vasūni | saḥ | go--patiḥ | niḥ-sidhām | naḥ | janāsaḥ