Sukta 4.24
क इमं दशभिर्ममेन्द्रं क्रीणाति धेनुभिः । यदा वृत्राणि जङ्घनदथैनं मे पुनर्ददत् ॥
क इ॒मं द॒शभि॒र्ममेन्द्रं॑ क्रीणाति धे॒नुभि॑: । य॒दा वृ॒त्राणि॒ जङ्घ॑न॒दथै॑नं मे॒ पुन॑र्ददत् ॥
ká imáṃ daśábhir mámendraṃ krīṇāti dhenúbhiḥ | yadā́ vṛtrā́ṇi jaṅ́ghanad áthainaṃ me púnar dadat ||
Who will buy for me this Indra with ten milch-cows? When he has smitten the obstructions, then let him give him back to me again.
कः । इ॒मम् । द॒शऽभिः॑ । मम॑ । इन्द्र॑म् । क्री॒णा॒ति॒ । धे॒नुऽभिः॑ । य॒दा । वृ॒त्राणि॑ । जङ्घ॑नत् । अथ॑ । ए॒न॒म् । मे॒ । पुनः॑ । द॒द॒त् ॥कः । इमम् । दशभिः । मम । इन्द्रम् । क्रीणाति । धेनुभिः । यदा । वृत्राणि । जङ्घनत् । अथ । एनम् । मे । पुनः । ददत् ॥kaḥ | imam | daśa-bhiḥ | mama | indram | krīṇāti | dhenu-bhiḥ | yadā | vṛtrāṇi | jaṅghanat | atha | enam | me | punaḥ | dadat