Sukta 4.21
भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र । का ते निषत्तिः किमु नो ममत्सि किं नोदुदु हर्षसे दातवा उ ॥
भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑य॒न्तारा॑ स्तुव॒ते राध॑ इन्द्र । का ते॒ निष॑त्ति॒: किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ॥
bhadrā́ te hástā su-kṛ́totá pāṇī́ práyantārā stuvaté rā́dha indra | kā́ te níṣattiḥ kím u no mamatsi kím nod udu harṣase dātávā u ||
Auspicious are your hands, well-skilled are your palms, O Indra—givers of delight to the one who praises. What is your resting-place? How will you take joy in us? By what uplift do you exult, to give to us?
भ॒द्रा । ते॒ । हस्ता॑ । सुऽकृ॑ता । उ॒त । पा॒णी इति॑ । प्र॒ऽय॒न्तारा॑ । स्तु॒व॒ते । राधः॑ । इ॒न्द्र॒ । का । ते॒ । निऽस॑त्तिः । किम् । ऊँ॒ इति॑ । नः॒ । म॒म॒त्सि॒ । किम् । न । उत्ऽउ॑त् । ऊँ॒ इति॑ । ह॒र्ष॒से॒ । दात॒वै । ऊँ॒ इति॑ ॥भद्रा । ते । हस्ता । सुकृता । उत । पाणी इति । प्रयन्तारा । स्तुवते । राधः । इन्द्र । का । ते । निसत्तिः । किम् । ऊँ इति । नः । ममत्सि । किम् । न । उत्उत् । ऊँ इति । हर्षसे । दातवै । ऊँ इति ॥bhadrā | te | hastā | su-kṛtā | uta | pāṇī iti | pra-yantārā | stuvate | rādhaḥ | indra | kā | te | ni-sattiḥ | kim | oṃ iti | naḥ | mamatsi | kim | na | ut-ut | oṃ iti | harṣase | dātavai | oṃ iti