Sukta 4.21
वि यद्वरांसि पर्वतस्य वृण्वे पयोभिर्जिन्वे अपां जवांसि । विदद्गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति ॥
वि यद्वरां॑सि॒ पर्व॑तस्य वृ॒ण्वे पयो॑भिर्जि॒न्वे अ॒पां जवां॑सि । वि॒दद्गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा॑य सु॒ध्यो॒३॒॑ वह॑न्ति ॥
ví yad varā́ṃsi párvatasya vṛṇvé páyobhir jinvé apā́ṃ javā́ṃsi | vidád gáurasya gavayásya góhe yadī́ vājā́ya su-dhyò váhanti ||
When he opens the doors of the mountain and with the streams of plenitude quickens the rush of the waters, then he finds, in the cow-pen, the shining light and its companion lights—when the powers of right discernment bear the plenitude of force toward the goal.
वि । यत् । वरां॑सि । पर्व॑तस्य । वृ॒ण्वे । पयः॑ऽभिः । जि॒न्वे । अ॒पाम् । जवां॑सि । वि॒दत् । गौ॒रस्य॑ । ग॒व॒यस्य॑ । गोहे॑ । यदि॑ । वाजा॑य । सु॒ऽध्यः॑ । वह॑न्ति ॥वि । यत् । वरांसि । पर्वतस्य । वृण्वे । पयःभिः । जिन्वे । अपाम् । जवांसि । विदत् । गौरस्य । गवयस्य । गोहे । यदि । वाजाय । सुध्यः । वहन्ति ॥vi | yat | varāṃsi | parvatasya | vṛṇve | payaḥ-bhiḥ | jinve | apām | javāṃsi | vidat | gaurasya | gavayasya | gohe | yadi | vājāya | su-dhyaḥ | vahanti