Sukta 4.21
एवा वस्व इन्द्रः सत्यः सम्राड्ढन्ता वृत्रं वरिवः पूरवे कः । पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय तेऽवसो दैव्यस्य ॥
ए॒वा वस्व॒ इन्द्र॑: स॒त्यः स॒म्राड्ढन्ता॑ वृ॒त्रं वरि॑वः पू॒रवे॑ कः । पुरु॑ष्टुत॒ क्रत्वा॑ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ॥
evā́ vásva índraḥ satyáḥ samrā́ḍ dhántā vṛtráṃ vári-vaḥ pūráve karitikaḥ | puru-stuta krátvā naḥ śágdhi rāyó bhakṣīyá té ’vaso daívyasya ||
Thus, O Indra the Good, the True, the sovereign king, slayer of Vṛtra, maker of wide room for Pūru—O much-praised—by your will and power help us, that we may partake of your divine protection and the fullness of being.
ए॒व । वस्वः॑ । इन्द्रः॑ । स॒त्यः । स॒म्ऽराट् । हन्ता॑ । वृ॒त्रम् । वरि॑वः । पू॒रवे॑ । क॒रिति॑ कः । पुरु॑ऽस्तुत । क्रत्वा॑ । नः॒ । श॒ग्धि॒ । रा॒यः । भ॒क्षी॒य । ते । अव॑सः । दैव्य॑स्य ॥एव । वस्वः । इन्द्रः । सत्यः । सम्राट् । हन्ता । वृत्रम् । वरिवः । पूरवे । करिति कः । पुरुस्तुत । क्रत्वा । नः । शग्धि । रायः । भक्षीय । ते । अवसः । दैव्यस्य ॥eva | vasvaḥ | indraḥ | satyaḥ | sam-rāṭ | hantā | vṛtram | varivaḥ | pūrave | karitikaḥ | puru-stuta | kratvā | naḥ | śagdhi | rāyaḥ | bhakṣīya | te | avasaḥ | daivyasya