Sukta 4.21
सत्रा यदीं भार्वरस्य वृष्णः सिषक्ति शुष्मः स्तुवते भराय । गुहा यदीमौशिजस्य गोहे प्र यद्धिये प्रायसे मदाय ॥
स॒त्रा यदीं॑ भार्व॒रस्य॒ वृष्ण॒: सिष॑क्ति॒ शुष्म॑: स्तुव॒ते भरा॑य । गुहा॒ यदी॑मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा॑य ॥
satrā yad īṃ bhārvarásya vṛ́ṣṇaḥ síṣakti śúṣmaḥ stuvaté bhárāya | guhā́ yad īm auśijásya góhe prá yád dhiyé práyase mádāya ||
When, unfailingly, the impetuous force of the Bull (Indra) is yoked for Bhārvara, for the bearer who praises, then—when he is hidden in the cave of the Auśija’s cow-pen—he comes forth for the thought, for the forward drive, for the ecstasy of fulfilment.
स॒त्रा । यत् । इ॒म् । भा॒र्व॒रस्य॑ । वृष्णः॑ । सिस॑क्ति । शुष्मः॑ । स्तु॒व॒ते । भरा॑य । गुहा॑ । यत् । ई॒म् । औ॒शि॒जस्य॑ । गोहे॑ । प्र । यत् । धि॒ये । प्र । अय॑से । मदा॑य ॥सत्रा । यत् । इम् । भार्वरस्य । वृष्णः । सिसक्ति । शुष्मः । स्तुवते । भराय । गुहा । यत् । ईम् । औशिजस्य । गोहे । प्र । यत् । धिये । प्र । अयसे । मदाय ॥satrā | yat | im | bhārvarasya | vṛṣṇaḥ | sisakti | śuṣmaḥ | stuvate | bharāya | guhā | yat | īm | auśijasya | gohe | pra | yat | dhiye | pra | ayase | madāya