Sukta 4.21
उप यो नमो नमसि स्तभायन्नियर्ति वाचं जनयन्यजध्यै । ऋञ्जसानः पुरुवार उक्थैरेन्द्रं कृण्वीत सदनेषु होता ॥
उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं॑ ज॒नय॒न्यज॑ध्यै । ऋ॒ञ्ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेन्द्रं॑ कृण्वीत॒ सद॑नेषु॒ होता॑ ॥
úpa yó námo námasi stabhāyán níyarti vā́caṃ janáyan yájadhyai | ṛñjasānás puru-vā́ra uktháir índraṃ kṛṇvīta sádanēṣu hótā ||
He who, drawing near with reverence, steadies homage by homage, sets in motion the word and brings it to birth for the act of worship—straightening himself, rich in many openings, with hymns he makes Indra present in the seats as the priest of the offering.
उप॑ । यः । नमः॑ । नम॑सि । स्त॒भा॒यन् । इय॑र्ति । वाच॑म् । ज॒नय॑न् । यज॑ध्यै । ऋ॒ञ्ज॒सा॒नः । पु॒रु॒ऽवारः॑ । उ॒क्थैः । आ । इन्द्र॑म् । कृ॒ण्वी॒त॒ । सद॑नेषु । होता॑ ॥उप । यः । नमः । नमसि । स्तभायन् । इयर्ति । वाचम् । जनयन् । यजध्यै । ऋञ्जसानः । पुरुवारः । उक्थैः । आ । इन्द्रम् । कृण्वीत । सदनेषु । होता ॥upa | yaḥ | namaḥ | namasi | stabhāyan | iyarti | vācam | janayan | yajadhyai | ṛñjasānaḥ | puru-vāraḥ | ukthaiḥ | ā | indram | kṛṇvīta | sadaneṣu | hotā