Sukta 4.21
स्थूरस्य रायो बृहतो य ईशे तमु ष्टवाम विदथेष्विन्द्रम् । यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ ॥
स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र॑म् । यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒ अच्छ॑ ॥
sthūrásya rāyó bṛható yá ī́śe tám u ṣṭavāma vidátheṣv índram | yó vāyúnā jáyati gómatiṣu prá dhṛṣṇu-yā́ náyati vásyo áccha ||
Indra who rules the massive and the vast plenitude—him let us praise in the assemblies. He who by the breath-force (vāyu) conquers in the fields rich in Light (gomatī), and by daring energy leads us forward to the better and the desirable.
स्थू॒रस्य॑ । रा॒यः । बृ॒ह॒तः । यः । ईशे॑ । तम् । ऊँ॒ इति॑ । स्त॒वा॒म॒ । वि॒दथे॑षु । इन्द्र॑म् । यः । वा॒युना॑ । जय॑ति । गोऽम॑तीषु । प्र । धृ॒ष्णु॒ऽया । नय॑ति । वस्यः॑ । अच्छ॑ ॥स्थूरस्य । रायः । बृहतः । यः । ईशे । तम् । ऊँ इति । स्तवाम । विदथेषु । इन्द्रम् । यः । वायुना । जयति । गोमतीषु । प्र । धृष्णुया । नयति । वस्यः । अच्छ ॥sthūrasya | rāyaḥ | bṛhataḥ | yaḥ | īśe | tam | oṃ iti | stavāma | vidatheṣu | indram | yaḥ | vāyunā | jayati | go--matīṣu | pra | dhṛṣṇu-yā | nayati | vasyaḥ | accha