Sukta 4.21
आ यात्विन्द्रो दिव आ पृथिव्या मक्षू समुद्रादुत वा पुरीषात् । स्वर्णरादवसे नो मरुत्वान्परावतो वा सदनादृतस्य ॥
आ या॒त्विन्द्रो॑ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । स्व॑र्णरा॒दव॑से नो म॒रुत्वा॑न्परा॒वतो॑ वा॒ सद॑नादृ॒तस्य॑ ॥
ā́ yā́tv índro divá ā́ pṛthivyā́ mákṣū samudrā́d utá vā́ purī́ṣāt | svàr-narād ávase no marútvān parāváto vā́ sádanād ṛtásya ||
Let Indra come from heaven, from earth, swiftly from the ocean-depth or from the rich fullness (purīṣa). From the luminous man-strength (svar-narā), for our protection, with the Maruts, let him come—whether from the far beyond or from the seat of the Truth (ṛta).
आ । या॒तु॒ । इन्द्रः॑ । दि॒वः । आ । पृ॒थि॒व्याः । म॒क्षु । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् । स्वः॑ऽनरात् । अव॑से । नः॒ । म॒रुत्वा॑न् । प॒रा॒ऽवतः॑ । वा॒ । सद॑नात् । ऋ॒तस्य॑ ॥आ । यातु । इन्द्रः । दिवः । आ । पृथिव्याः । मक्षु । समुद्रात् । उत । वा । पुरीषात् । स्वःनरात् । अवसे । नः । मरुत्वान् । परावतः । वा । सदनात् । ऋतस्य ॥ā | yātu | indraḥ | divaḥ | ā | pṛthivyāḥ | makṣu | samudrāt | uta | vā | purīṣāt | svaḥ-narāt | avase | naḥ | marutvān | parāvataḥ | vā | sadanāt | ṛtasya