Sukta 4.21
तस्येदिह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् । यस्य क्रतुर्विदथ्यो न सम्राट् साह्वान्तरुत्रो अभ्यस्ति कृष्टीः ॥
तस्येदि॒ह स्त॑वथ॒ वृष्ण्या॑नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् । यस्य॒ क्रतु॑र्विद॒थ्यो॒३॒॑ न स॒म्राट् सा॒ह्वान्तरु॑त्रो अ॒भ्यस्ति॑ कृ॒ष्टीः ॥
tásyed ihá stavatha vṛ́ṣṇyāni tuvi-dyumnásya tuvi-rā́dhaso nṝ́n | yásya krátur vidathyò ná sam-rā́ṭ sā́hvān tárutraḥ abhy ásti kṛ́ṣṭīḥ ||
Here praise the virile powers of him of vast radiance and vast plenitude, the leader among men; whose will (kratu) in the assemblies is like an emperor—overcoming, far-bearing, he stands over the peoples, mastering them toward the right order.
तस्य॑ । इत् । इ॒ह । स्त॒व॒थ॒ । वृष्ण्या॑नि । तु॒वि॒ऽद्यु॒म्नस्य॑ । तु॒वि॒ऽराध॑सः । नॄन् । यस्य॑ । क्रतुः॑ । वि॒द॒थ्यः॑ । न । स॒म्ऽराट् । स॒ह्वान् । तरु॑त्रः । अ॒भि । अस्ति॑ । कृ॒ष्टीः ॥तस्य । इत् । इह । स्तवथ । वृष्ण्यानि । तुविद्युम्नस्य । तुविराधसः । नॄन् । यस्य । क्रतुः । विदथ्यः । न । सम्राट् । सह्वान् । तरुत्रः । अभि । अस्ति । कृष्टीः ॥tasya | it | iha | stavatha | vṛṣṇyāni | tuvi-dyumnasya | tuvi-rādhasaḥ | nṝn | yasya | kratuḥ | vidathyaḥ | na | sam-rāṭ | sahvān | tarutraḥ | abhi | asti | kṛṣṭīḥ