Sukta 4.21
आ यात्विन्द्रोऽवस उप न इह स्तुतः सधमादस्तु शूरः । वावृधानस्तविषीर्यस्य पूर्वीर्द्यौर्न क्षत्रमभिभूति पुष्यात् ॥
आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूर॑: । वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ॥
ā́ yā́tv índro 'váse úpa na ihá stutáḥ sadha-mā́d astu śū́raḥ | vāvṛdhānás távīṣīr yásya pū́rvīr dyáur ná kṣatrám abhi-bhū́ti púṣyāt ||
Let Indra come near to us here for our protection; praised, may the Hero be present in the common session. Ever increasing the powers of force (taviṣīḥ), whose many mights nourish sovereignty like heaven itself, may his victorious mastery grow in us.
आ । या॒तु॒ । इन्द्रः॑ । अव॑से । उप॑ । नः॒ । इ॒ह । स्तु॒तः । स॒ध॒ऽमात् । अ॒स्तु॒ । शूरः॑ । व॒वृ॒धा॒नः । तवि॑षीः । यस्य॑ । पू॒र्वीः । द्यौः । न । क्ष॒त्रम् । अ॒भिऽभू॑ति । पुष्या॑त् ॥आ । यातु । इन्द्रः । अवसे । उप । नः । इह । स्तुतः । सधमात् । अस्तु । शूरः । ववृधानः । तविषीः । यस्य । पूर्वीः । द्यौः । न । क्षत्रम् । अभिभूति । पुष्यात् ॥ā | yātu | indraḥ | avase | upa | naḥ | iha | stutaḥ | sadha-māt | astu | śūraḥ | vavṛdhānaḥ | taviṣīḥ | yasya | pūrvīḥ | dyauḥ | na | kṣatram | abhi-bhūti | puṣyāt