Sukta 4.2
यस्तुभ्यमग्ने अमृताय दाशद्दुवस्त्वे कृणवते यतस्रुक् । न स राया शशमानो वि योषन्नैनमंहः परि वरदघायोः ॥
यस्तुभ्य॑मग्ने अ॒मृता॑य॒ दाश॒द्दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क् । न स रा॒या श॑शमा॒नो वि यो॑ष॒न्नैन॒मंह॒: परि॑ वरदघा॒योः ॥
yás tubhyam agne amṛ́tāya dā́śad dúvas tve kṛṇávate yátasruk | ná sá rāyā́ śaśamānó ví yoṣan náinam áṃhaḥ pári varad aghāyóḥ ||
Who offers to you, O Agni, to the Immortal, and makes his reverent service in you with disciplined ladle—he does not fall away from plenitude though he strives; distress does not close around him, nor the malice of the ill-willer.
यः । तुभ्य॑म् । अ॒ग्ने॒ । अ॒मृता॑य । दा॒श॒ऽहुवः॑ । त्वे इति॑ । कृ॒णव॑ते । य॒तऽस्रु॑क् । न । सः । रा॒या । श॒श॒मा॒नः । वि । यो॒ष॒त् । न । ए॒न॒म् । अंहः॑ । परि॑ । व॒र॒त् । अ॒घ॒ऽयोः ॥यः । तुभ्यम् । अग्ने । अमृताय । दाशहुवः । त्वे इति । कृणवते । यतस्रुक् । न । सः । राया । शशमानः । वि । योषत् । न । एनम् । अंहः । परि । वरत् । अघयोः ॥yaḥ | tubhyam | agne | amṛtāya | dāśa-huvaḥ | tve iti | kṛṇavate | yata-sruk | na | saḥ | rāyā | śaśamānaḥ | vi | yoṣat | na | enam | aṃhaḥ | pari | varat | agha-yoḥ