Sukta 4.2
यस्य त्वमग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः । प्रीतेदसद्धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः ॥
यस्य॒ त्वम॑ग्ने अध्व॒रं जुजो॑षो दे॒वो मर्त॑स्य॒ सुधि॑तं॒ ररा॑णः । प्री॒तेद॑स॒द्धोत्रा॒ सा य॑वि॒ष्ठासा॑म॒ यस्य॑ विध॒तो वृ॒धास॑: ॥
yásya tvám agne adhvaráṃ jujóṣo devó mártasya su-dhítam rarā́ṇaḥ | prītéd asadd hótrā sā́ yaviṣṭhā́sāma yásya vidható vṛdhā́saḥ ||
Whose path of offering you accept, O Agni—shining god delighting in the well-ordered work of the mortal—then the priestly power (hotrā) sits there in joy. O youngest, for that one who serves, the growths of being increase.
यस्य॑ । त्वम् । अ॒ग्ने॒ । अ॒ध्व॒रम् । जुजो॑षः । दे॒वः । मर्त॑स्य । सु॒ऽधि॑तम् । ररा॑णः । प्री॒ता । इत् । अ॒स॒त् । होत्रा॑ । सा । य॒वि॒ष्ठ॒ । असा॑म । यस्य॑ । वि॒ध॒तः । वृ॒धासः॑ ॥यस्य । त्वम् । अग्ने । अध्वरम् । जुजोषः । देवः । मर्तस्य । सुधितम् । रराणः । प्रीता । इत् । असत् । होत्रा । सा । यविष्ठ । असाम । यस्य । विधतः । वृधासः ॥yasya | tvam | agne | adhvaram | jujoṣaḥ | devaḥ | martasya | su-dhitam | rarāṇaḥ | prītā | it | asat | hotrā | sā | yaviṣṭha | asāma | yasya | vidhataḥ | vṛdhāsaḥ