Sukta 4.2
यस्त्वा दोषा य उषसि प्रशंसात्प्रियं वा त्वा कृणवते हविष्मान् । अश्वो न स्वे दम आ हेम्यावान्तमंहसः पीपरो दाश्वांसम् ॥
यस्त्वा॑ दो॒षा य उ॒षसि॑ प्र॒शंसा॑त्प्रि॒यं वा॑ त्वा कृ॒णव॑ते ह॒विष्मा॑न् । अश्वो॒ न स्वे दम॒ आ हे॒म्यावा॒न्तमंह॑सः पीपरो दा॒श्वांस॑म् ॥
yás tvā doṣā́ yá uṣási praśáṃsāt priyáṃ vā tvā kṛṇávate havíṣmān | áśvo ná své dáma ā́ hemyā́vān tám áṃhasaḥ pī́paro dā́śvāṃsam ||
Who praises you by night and who at dawn, or who makes you dear by his offering—like a horse in its own stable, come home to him. O Agni, you who hold the rein, carry that giver across distress and narrowness.
यः । त्वा॒ । दो॒षा । यः । उ॒षसि॑ । प्र॒ऽशंसा॑त् । प्रि॒यम् । वा॒ । त्वा॒ । कृ॒णव॑ते । ह॒विष्मा॑न् । अश्वः॑ । न । स्वे । दमे॑ । आ । हे॒म्याऽवा॑न् । तम् । अंह॑सः । पी॒प॒रः॒ । दा॒श्वांस॑म् ॥यः । त्वा । दोषा । यः । उषसि । प्रशंसात् । प्रियम् । वा । त्वा । कृणवते । हविष्मान् । अश्वः । न । स्वे । दमे । आ । हेम्यावान् । तम् । अंहसः । पीपरः । दाश्वांसम् ॥yaḥ | tvā | doṣā | yaḥ | uṣasi | pra-śaṃsāt | priyam | vā | tvā | kṛṇavate | haviṣmān | aśvaḥ | na | sve | dame | ā | hemyāvān | tam | aṃhasaḥ | pīparaḥ | dāśvāṃsam