Sukta 4.2
गोमाँ अग्नेऽविमाँ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः । इळावाँ एषो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावान् ॥
गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इळा॑वाँ ए॒षो अ॑सुर प्र॒जावा॑न्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ॥
gómāṃ agne ’vímāṃ aśvī́ yajñó nṛvát-sakhā sádham íd apra-mṛ́ṣyaḥ | iḷā́vān eṣó asura prajā́vān dīrghó rayíḥ pṛthu-búdhnas sabhā́vān ||
O Agni, the sacrifice becomes rich in rays of light (cows), rich in formative powers (sheep), rich in swift energies (horses); it has the noble as comrades and is invincible in its seat. This is your might, O luminous Asura: a sacrifice full of Ila (revelation), full of progenitive force; it yields a long-lasting plenitude (rayi), broad-based and fit for the assembly of the inner powers.
गोऽमा॑न् । अ॒ग्ने॒ । अवि॑ऽमान् । अ॒श्वी । य॒ज्ञः । नृ॒वत्ऽस॑खा । सद॑म् । इत् । अ॒प्र॒ऽमृ॒ष्यः । इळा॑ऽवान् । ए॒षः । अ॒सु॒र॒ । प्र॒जाऽवा॑न् । दी॒र्घः । र॒यिः । पृ॒थु॒ऽबु॒ध्नः । स॒भाऽवा॑न् ॥गोमान् । अग्ने । अविमान् । अश्वी । यज्ञः । नृवत्सखा । सदम् । इत् । अप्रमृष्यः । इळावान् । एषः । असुर । प्रजावान् । दीर्घः । रयिः । पृथुबुध्नः । सभावान् ॥go--mān | agne | avi-mān | aśvī | yajñaḥ | nṛvat-sakhā | sadam | it | apra-mṛṣyaḥ | iḷāvān | eṣaḥ | asura | prajāvān | dīrghaḥ | rayiḥ | pṛthu-budhnaḥ | sabhāvān