Sukta 4.2
अर्यमणं वरुणं मित्रमेषामिन्द्राविष्णू मरुतो अश्विनोत । स्वश्वो अग्ने सुरथः सुराधा एदु वह सुहविषे जनाय ॥
अ॒र्य॒मणं॒ वरु॑णं मि॒त्रमे॑षा॒मिन्द्रा॒विष्णू॑ म॒रुतो॑ अ॒श्विनो॒त । स्वश्वो॑ अग्ने सु॒रथ॑: सु॒राधा॒ एदु॑ वह सुह॒विषे॒ जना॑य ॥
aryamā́ṇaṃ váruṇaṃ mitrám eṣām índrāviṣṇū marúto aśvínot | sváśvo agne suráthaḥ surā́dhā éd u vaha suhavíṣe jánāya ||
Bring Aryaman, Varuna, Mitra—bring Indra and Vishnu, the Maruts and the Ashvins. O Agni, with good steeds, good chariot, and good accomplishings, carry them indeed to the people who offer well: let the human vessel receive the full assembly of the powers.
अ॒र्य॒मण॑म् । वरु॑णम् । मि॒त्रम् । ए॒षा॒म् । इन्द्रा॒विष्णू॒ इति॑ । म॒रुतः॑ । अ॒श्विना॑ । उ॒त । सु॒ऽअश्वः॑ । अ॒ग्ने॒ । सु॒ऽरथः॑ । सु॒ऽराधाः॑ । आ । इत् । ऊँ॒ इति॑ । व॒ह॒ । सु॒ऽह॒विषे॑ । जना॑य ॥अर्यमणम् । वरुणम् । मित्रम् । एषाम् । इन्द्राविष्णू इति । मरुतः । अश्विना । उत । सुअश्वः । अग्ने । सुरथः । सुराधाः । आ । इत् । ऊँ इति । वह । सुहविषे । जनाय ॥aryamaṇam | varuṇam | mitram | eṣām | indrāviṣṇūiti | marutaḥ | aśvinā | uta | su-aśvaḥ | agne | su-rathaḥ | su-rādhāḥ | ā | it | oṃ iti | vaha | su-haviṣe | janāya