Sukta 4.2
अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा । अन्तरीयसे अरुषा युजानो युष्माँश्च देवान्विश आ च मर्तान् ॥
अत्या॑ वृध॒स्नू रोहि॑ता घृ॒तस्नू॑ ऋ॒तस्य॑ मन्ये॒ मन॑सा॒ जवि॑ष्ठा । अ॒न्तरी॑यसे अरु॒षा यु॑जा॒नो यु॒ष्माँश्च॑ दे॒वान्विश॒ आ च॒ मर्ता॑न् ॥
átyā vṛdhasnū róhitā ghṛtasnū ṛtásya manye mánasā jáviṣṭhā | antár īyase aruṣā́ yujānó yuṣmā́ṃś ca devā́n víśa ā́ ca mártān ||
Swift are your coursers, growing in strength, ruddy and dripping with the ghee of delight; by mind I perceive them as the most rapid for the Truth. Thus you move between, yoking the ruddy powers, bringing together you gods and the human clans as one movement toward ṛta.
अत्या॑ । वृ॒ध॒स्नू इति॑ वृ॒ध॒ऽस्नू । रोहि॑ता । घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ऋ॒तस्य॑ । म॒न्ये॒ । मन॑सा । जवि॑ष्ठा । अ॒न्तः । ई॒य॒से॒ । अ॒रु॒षा । यु॒जा॒नः । यु॒ष्मान् । च॒ । दे॒वान् । विशः॑ । आ । च॒ । मर्ता॑न् ॥अत्या । वृधस्नू इति वृधस्नू । रोहिता । घृतस्नू इति घृतस्नू । ऋतस्य । मन्ये । मनसा । जविष्ठा । अन्तः । ईयसे । अरुषा । युजानः । युष्मान् । च । देवान् । विशः । आ । च । मर्तान् ॥atyā | vṛdhasnū itivṛdha-snū | rohitā | ghṛtasnūitighṛta-snū | ṛtasya | manye | manasā | javiṣṭhā | antaḥ | īyase | aruṣā | yujānaḥ | yuṣmān | ca | devān | viśaḥ | ā | ca | martān