Sukta 4.2
आ यूथेव क्षुमति पश्वो अख्यद्देवानां यज्जनिमान्त्युग्र । मर्तानां चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः ॥
आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ यज्जनि॒मान्त्यु॑ग्र । मर्ता॑नां चिदु॒र्वशी॑रकृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ॥
ā́ yū́theva kṣu-máti paśvó akhyad devā́nāṃ yáj jánimā́nty ùgra | mártānāṃ cid urváśīr akṛpran vṛdhé cid aryá úparasy āyóḥ ||
Like a herd, the rich life-powers came into view when the mighty birth of the gods drew near. Even for mortals the Urvaśīs (wide-shining inspirations) were fashioned; even for increase the noble one found the higher life-force.
आ । यू॒थाऽइ॑व । क्षु॒ऽमति॑ । प॒श्वः । अ॒ख्य॒त् । दे॒वाना॑म् । यत् । ज॒नि॒म । अन्ति॑ । उ॒ग्र॒ । मर्ता॑नाम् । चि॒त् । उ॒र्वशीः॑ । अ॒कृ॒प्र॒न् । वृ॒धे । चि॒त् । अ॒र्यः । उप॑रस्य । आ॒योः ॥आ । यूथाइव । क्षुमति । पश्वः । अख्यत् । देवानाम् । यत् । जनिम । अन्ति । उग्र । मर्तानाम् । चित् । उर्वशीः । अकृप्रन् । वृधे । चित् । अर्यः । उपरस्य । आयोः ॥ā | yūthāiva | kṣu-mati | paśvaḥ | akhyat | devānām | yat | janima | anti | ugra | martānām | cit | urvaśīḥ | akṛpran | vṛdhe | cit | aryaḥ | uparasya | āyoḥ