Sukta 4.2
सुकर्माणः सुरुचो देवयन्तोऽयो न देवा जनिमा धमन्तः । शुचन्तो अग्निं ववृधन्त इन्द्रमूर्वं गव्यं परिषदन्तो अग्मन् ॥
सु॒कर्मा॑णः सु॒रुचो॑ देव॒यन्तोऽयो॒ न दे॒वा जनि॑मा॒ धम॑न्तः । शु॒चन्तो॑ अ॒ग्निं व॑वृ॒धन्त॒ इन्द्र॑मू॒र्वं गव्यं॑ परि॒षद॑न्तो अग्मन् ॥
su-kármāṇaḥ su-rúco deva-yánto’ yó ná devā́ jánimā dhámantaḥ | śucánto agníṃ vavṛdhánta índram ū́rvaṃ gavyáṃ pari-sádanto agman ||
Doing the good work, bright of light, turning godward, they forged their birth like gods with their breath of power. Purifying themselves, they increased Agni and strengthened Indra; they went and sat around the wide pen of the luminous herds (rays of knowledge).
सु॒ऽकर्मा॑णः । सु॒ऽरुचः॑ । दे॒व॒ऽयन्तः॑ । अयः॑ । न । दे॒वाः । जनि॑म । धम॑न्तः । शु॒चन्तः॑ । अ॒ग्निम् । व॒वृ॒धन्तः॑ । इन्द्र॑म् । ऊ॒र्वम् । गव्य॑म् । प॒रि॒ऽसद॑न्तः । अ॒ग्म॒न् ॥सुकर्माणः । सुरुचः । देवयन्तः । अयः । न । देवाः । जनिम । धमन्तः । शुचन्तः । अग्निम् । ववृधन्तः । इन्द्रम् । ऊर्वम् । गव्यम् । परिसदन्तः । अग्मन् ॥su-karmāṇaḥ | su-rucaḥ | deva-yantaḥ | ayaḥ | na | devāḥ | janima | dhamantaḥ | śucantaḥ | agnim | vavṛdhantaḥ | indram | ūrvam | gavyam | pari-sadantaḥ | agman