Sukta 4.2
अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशुषाणाः । शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥
अधा॒ यथा॑ नः पि॒तर॒: परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः । शुचीद॑य॒न्दीधि॑तिमुक्थ॒शास॒: क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन् ॥
adhā́ yáthā naḥ pitáraḥ párāsaḥ pratnā́so agne ṛtám āśuṣāṇā́ḥ | śucī́d ayan dī́dhitim uktha-śā́saḥ kṣā́mā bhindánto aruṇī́r ápa vran ||
Then, as our fathers of old, the ancient ones, eager for the Truth, did—so also, O Agni: pure, proclaiming the word, they brought the shining flame; breaking open the earth, they uncovered the ruddy lights and cast them free.
अध॑ । यथा॑ । नः॒ । पि॒तरः॑ । परा॑सः । प्र॒त्नासः॑ । अ॒ग्ने॒ । ऋ॒तम् । आ॒शु॒षा॒णाः । शुचि॑ । इत् । अ॒य॒न् । दीधि॑तिम् । उ॒क्थ॒ऽशासः । क्षामा॑ । भि॒न्दन्तः॑ । अ॒रु॒णीः । अप॑ । व्र॒न् ॥अध । यथा । नः । पितरः । परासः । प्रत्नासः । अग्ने । ऋतम् । आशुषाणाः । शुचि । इत् । अयन् । दीधितिम् । उक्थशासः । क्षामा । भिन्दन्तः । अरुणीः । अप । व्रन् ॥adha | yathā | naḥ | pitaraḥ | parāsaḥ | pratnāsaḥ | agne | ṛtam | āśuṣāṇāḥ | śuci | it | ayan | dīdhitim | uktha-śāsaḥ | kṣāmā | bhindantaḥ | aruṇīḥ | apa | vran